(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.92. अध्यायः 092
Mahabharata - Bhishma Parva - Chapter Topics
घटोत्कचयुद्धवर्णनम् ॥ 1 ॥
Mahabharata - Bhishma Parva - Chapter Text

सञ्जय उवाच। 6-92-0x(4174)(42828)
ततस्तद्बाणवर्षं तु दुःसहं दानवैरपि।
दधार युधि राजेन्द्रो यथा वर्षं महाद्विपः ॥ 6-92-1(42829)
ततः क्रोधसमाविष्टो निःश्वसन्निव पन्नगः ।
संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ ॥ 6-92-2(42830)
मुमोच निशितांस्तीक्ष्णान्नाराचान्पञ्चविंशतिम्।
तेऽपतन्सहसा राजंस्तस्मिन्राक्षसपुङ्गवे ॥ 6-92-3(42831)
आशीविषा इव क्रुद्धाः पर्वते गन्धमादने ।
स तैर्विद्धः स्रवन्रक्तं प्रभिन्न इव कुञ्जरः ॥ 6-92-4(42832)
दध्रे मतिं विनाशाय राज्ञः स पिशिताशनः।
जग्राह च महाशक्तिं गिरीणामपि दारिणीम् ॥ 6-92-5(42833)
संप्रदीप्तां महोल्काभामशनिं ज्वलितामिव ।
तमागच्छन्महाबाहुर्जिघांसुस्तनयं तव॥ 6-92-6(42834)
तामुद्यतामभिप्रेक्ष्य वङ्गानामधिपस्त्वरन् ।
कुञ्जरं गिरिसंकाशं राक्षसं प्रत्यचोदयत् ॥ 6-92-7(42835)
स नागप्रवरेणाजौ बलिना शीघ्रगामिना ।
यतो दुर्योधनरथस्तं मार्गं प्रत्यषेधयत् ॥ 6-92-8(42836)
पन्थानं वारयामास कुञ्जरेण सुतस्य ते।
मार्गमावारितं दृष्ट्वा राज्ञा वङ्गेन धीमता ॥ 6-92-9(42837)
घटोत्कचो महाराज क्रोधसंरक्तलोचनः ।
उद्यतां तां महाशक्तिकं तस्मिंश्चिक्षेप वारणे ॥ 6-92-10(42838)
स तयाऽभिहतो राजंस्तेन बाहुप्रमुक्तया।
संजातरुधिरोत्पीडः पपात च ममार च ॥ 6-92-11(42839)
पतत्यथ गजे चापि वङ्गानामीश्वरो बली।
जवेन समभिद्रुत्य जगाम धरणीतलम् ॥ 6-92-12(42840)
दुर्योधोऽपि संप्रेक्ष्य पतितं वरवारणम् ।
प्रभग्नं च बलं दृष्ट्वा जगाम परमां व्यथाम् ॥ 6-92-13(42841)
`अशक्तः प्रतियोद्धुं वै दृष्ट्वा तस्य पराक्रमम्।'
क्षत्रधर्मं पुरस्कृत्य आत्मनश्चातिमानिताम्।
प्राप्तेऽपक्रनये राजा तस्थौ गिरिरिवाचलः ॥ 6-92-14(42842)
राधान च शितं बाणं कालाग्निसमतेजसम्।
सुयोच धरमक्रुद्धस्तस्मिन्घोरे निशाचरे ॥ 6-92-15(42843)
तमापतन्तं संप्रेक्ष्य वणिमिन्द्राशनिप्रभम् ।
लाघवान्मोचयामास महात्मा वै घटोत्कचः ॥ 6-92-16(42844)
भूयश्च निननादोषं क्रोधसंरक्तलोचनः ।
त्रासयामास रौन्यानि युगन्ते जलदो यथा ॥ 6-92-17(42845)
तं श्रुत्वा निनिदं घोरं तस्व भीमस्य रक्षसः।
आचार्यमुसंगम्य भीष्मः शान्तनवोऽब्रवीत् ॥ 6-92-18(42846)
यथैव निनन्दो घोरः श्रूयते राक्षसेरितः ।
हैडिम्बो युध्यते नूनं राज्ञा दुर्योधनेन च ॥ 6-92-19(42847)
नैष शक्यो हि संग्रामे जेतुं भूतेन केनचित् ।
तत्र गच्छत भद्रं वो राजानं परिरक्षितुम् ॥ 6-92-20(42848)
अभिद्रुत्य महाबाहुं राक्षसेन प्रपीडितम्।
एतद्धि परमं कृत्यं सर्वेषां नः परंतपाः ॥ 6-92-21(42849)
पितामहवचः श्रुत्वा त्वरमाणा महारथाः ।
उत्तमं जवमास्थाय प्रययुर्यत्र कौरवः ॥ 6-92-22(42850)
द्रोणश्च सोमदत्तश्च बाह्लीकोऽथ जयद्रथः ।
कृपो भिरिश्रवाः शल्य आवन्त्यः स बृहद्बलः ॥ 6-92-23(42851)
अश्वत्थामा विकर्णश्च चित्रसेनो विविंशतिः।
रथाश्चानेकसाहस्रा ये तेषामनुयायिनः ॥ 6-92-24(42852)
अभिद्रुतं परीप्सन्तः पुत्रं दुर्योधनं तव।
तदनीकमनाधृष्यं पालितं तु महारथैः ॥ 6-92-25(42853)
पाततायिनमायान्तं प्रेक्ष्य राक्षससत्तमः ।
...कम्पत महाबाहुर्मैनाक इव पर्वतःक ॥ 6-92-26(42854)
प्रगृह्य विपुलं चापं ज्ञातिभिः परिवारितः ।
शूलमुद्गरहस्तैश्च नानाप्रहरणैरपि ॥ 6-92-27(42855)
ततः समभवद्युद्धं तुमुलं रोमहर्षणम् ।
राक्षसानां च मुख्यस्य दुर्योधनबलस्य च ॥ 6-92-28(42856)
धनुषां कूजतां शब्दः सर्वतस्तुमुलो रणे ।
अश्रूयत महाराज वंशानां दह्यतामिव ॥ 6-92-29(42857)
शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम्।
शब्दः समभवद्राजन्गिरीणामिव भिद्यताम् ॥ 6-92-30(42858)
वीरबाहुविसृष्टानां तोमराणां विशांपते ।
रूपमासीद्वियत्स्थानां सर्पाणामिव सर्पताम् ॥ 6-92-31(42859)
ततः परमसंक्रुद्धो विष्फार्य सुमहद्धनुः ।
राक्षसन्द्रो महाबाहुर्विनदन्भैरव रवम् ॥ 6-92-32(42860)
आचार्यस्यार्धचन्द्रेण क्रुद्धश्चिच्छेद कार्मुकम् ।
सोमदत्तस्य भल्लेन ध्वजं चोन्मथ्य चानदत् ॥ 6-92-33(42861)
बाह्लीकं च त्रिभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे।
कृपमेकेन विव्याध चित्रसेनं त्रिभिः शरैः ॥ 6-92-34(42862)
पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च।
जत्रुदेशे समासाद्य विकर्णं समताडयत् ॥ 6-92-35(42863)
न्यषीदत्स्वरथोपस्थे शोणितेन परिप्लुतः ।
ततः पुनरमेयात्मा नाराचान्दश पञ्च च ॥ 6-92-36(42864)
भूरिश्रवसि संक्रुद्धः प्राहिणोद्भरतर्षभ ।
ते वर्म भित्त्वा तस्याशु विविशुर्धरणीतलम् ॥ 6-92-37(42865)
विविंशतेश्च द्रौणेश्च यन्तारौ समताडयत्।
तौ पेततू रथोपस्थे रश्मीनुत्सृज्य वाजिनाम् ॥ 6-92-38(42866)
सिन्धुराज्ञोऽर्धचन्द्रेण वाराहं स्वर्णभूषितम् ।
उन्ममाथ महाराज द्वितीयेनाच्छिनद्धनुः ॥ 6-92-39(42867)
चतुर्भिरथ नाराचैरावन्त्यस्य महात्मनः ।
जघान चतुरो वाहान्क्रोधसंरक्तलोचनः ॥ 6-92-40(42868)
पूर्णायतविसृष्टेन पीतेन निशितेन च ।
निर्बिभेद महाराज राजपुत्रं बृहद्बलम् ॥ 6-92-41(42869)
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्।
भृशं क्रोधेन चाविष्टो रथस्थो राक्षसाधिपः ॥ 6-92-42(42870)
चिक्षेप निशितांस्तीक्ष्णाञ्छरानाशीविषोपमान्।
बिभिदुस्ते महाराज शल्यं युद्धविशारदम् ॥ ॥ 6-92-43(42871)

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि अष्टमदिवसयुद्धे द्विनवतितमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.